Articles, Essays & General Studies

Dear Brother/Sister,
This Section/Web page(s) contains information about various topics/subject, essays, articles. This section is very much helpful for the elementary, high school, junior lever students for their examinations.
Please visit regularly for latest updates. Also, contains information/essays asked in service commission, bank examinations, competitive examinations.

Tuesday, 5 February 2013

VENKATESA MANGALASASANAM

VENKATESA MANGALASASANAM IN HINDI

वेङ्कटेश मङ्गलाशासनम्

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥१॥
लक्ष्मी-सविभ्रमालोक-सुभ्रू-विभ्रमचक्षुषे ।
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥२॥
श्रीवेङ्कटाद्रि-शृङ्गाग्र-मङ्गलाभरणाङ्घ्रये ।
मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम् ॥३॥
सर्वावयवसौन्दर्य-सम्पदा सर्वचेतसाम् ।
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥४॥
नित्याय निरवद्याय सत्यानन्दचिदात्मने ।
सर्वान्तरात्मने श्रीमद्-वेङ्कटेशाय मङ्गलम् ॥५॥
स्वतस्सर्वविदे सर्वशक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥६॥
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥७॥
आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम् ।
अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् ॥८॥
प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपयाऽऽदिशते श्रीमद्-वेङ्कटेशाय मङ्गलम् ॥९॥
दयामृत-तरङ्गिण्यास्तरङ्गैरिव शीतलैः ।
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥१०॥
स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये ।
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥११॥
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥१२॥
श्रीमत् सुन्दरजामातृमुनिमानसवासिने ।
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥१३॥
मङ्गलाशासनपरैर्मदाचार्य-पुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥१४॥
॥ इति श्रीवेङ्कटेश मङ्गलाशासनं सम्पूर्णम् ॥

No comments:

Post a Comment